Search

Shop Our products Online @

www.gurutvakaryalay.com

www.gurutvakaryalay.in


मंगलवार, जून 15, 2010

एकदन्त शरणागति स्तोत्रम्

Ekadanta Sharnagati stotram, Ganesh Sharanagati Stotram, गणेश स्तोत्र, गणेश स्तोत्रम्

एकदन्त शरणागति स्तोत्रम्

एकदन्तम् शरणम् व्रजाम:

देवर्षय ऊचु:

सदात्मरूपं सकलादिभूतममायिनं सोऽहमचिन्त्यबोधम्।
अनादिमध्यान्तविहीनमेकं तमेकदन्तं शरणं व्रजाम:॥

अनन्तचिद्रूपमयं गणेशमभेदभेदादिविहीनमाद्यम्।
हृदि प्रकाशस्य धरं स्वधीस्थं तमेकदन्तं शरणं व्रजाम:॥

समाधिसंस्थं हृदि योगिनां यं प्रकाशरूपेण विभातमेतम्।
सदा निरालम्बसमाधिगम्यं तमेकदन्तं शरणं व्रजाम:॥

स्वबिम्बभावेन विलासयुक्तां प्रत्यक्षमायां विविधस्वरूपाम्।
स्ववीर्यकं तत्र ददाति यो वै तमेकदन्तं शरणं व्रजाम:॥

त्वदीयवीर्येण समर्थभूतस्वमायया संरचितं च विश्वम्।
तुरीयकं ह्यात्मप्रतीतिसंज्ञं तमेकदन्तं शरणं व्रजाम:॥

त्वदीयसत्ताधरमेकदन्तं गुणेश्वरं यं गुणबोधितारम्।
भजन्तमत्यन्तमजं त्रिसंस्थं तमेकदन्तं शरणं व्रजाम:॥

ततस्त्वया प्रेरितनादकेन सुषुप्तिसंज्ञं रचितं जगद् वै।
समानरूपं ह्युभयत्रसंस्थं तमेकदन्तं शरणं व्रजाम:॥

तदेव विश्वं कृपया प्रभूतं द्विभावमादौ तमसा विभान्तम्।
अनेकरूपं च तथैकभूतं तमेकदन्तं शरणं व्रजाम:॥

ततस्त्वया प्रेरितकेन सृष्टं बभूव सूक्ष्मं जगदेकसंस्थम्।
सुसात्ति्‍‌वकं स्वपन्मनन्तमाद्यं तमेकदन्तं शरणं व्रजाम:॥

तदेव स्वपन् तपसा गणेश सुसिद्धरूपं विविधं बभूव।
सदैकरूपं कृपया च तेऽद्य तमेकदन्तं शरणं व्रजाम:॥

त्वदाज्ञया तेन त्वया हृदिस्थं तथा सुसृष्टं जगदंशरूपम्।
विभिन्नजाग्रन्मयमप्रमेयं तमेकदन्तं शरणं व्रजाम:॥

तदेव जाग्रद्रजसा विभातं विलोकितं त्वत्कृपया स्मृतेन।
बभूव भिन्न च सदैकरूपं तमेकदन्तं शरणं व्रजाम:॥

सदेव सृष्टिप्रकृतिस्वभावात्तदन्तरे त्वं च विभासि नित्यम्।
धिय: प्रदाता गणनाथ एकस्तमेकदन्तं शरणं व्रजाम:॥

त्वदाज्ञया भान्ति ग्रहाश्च सर्वे प्रकाशरूपाणि विभान्ति खे वै।
भ्रमन्ति नित्यं स्वविहारकार्यास्तमेकदन्तं शरणं व्रजाम:॥

त्वदाज्ञया सृष्टिकरो विधाता त्वदाज्ञया पालक एकविष्णु:।
त्वदाज्ञया संहरको हरोऽपि तमेकदन्तं शरणं व्रजाम:॥

यदाज्ञया भूमिजलेऽत्र संस्थे यदाज्ञयाप: प्रवहन्ति नद्य:।
स्वतीर्थसंस्थश्च कृत: समुद्रस्तमेकदन्तं शरणं व्रजाम:॥

यदाज्ञया देवगणा दिविस्था ददन्ति वै कर्मफलानि नित्यम्।
यदाज्ञया शैलगणा: स्थिरा वै तमेकदन्तं शरणं व्रजाम:।

यदाज्ञया देवगणा दिविस्था ददन्ति वै कर्मफलानि नित्यम्।
यदाज्ञया शैलगणा: स्थिरा वै तमेकदन्तं शरणं व्रजाम:॥

यदाज्ञया शेषधराधरो वै यदाज्ञया मोहप्रदश्च काम:।
यदाज्ञया कालधरोऽर्यमा च तमेकदन्तं शरणं व्रजाम:॥

यदाज्ञया वाति विभाति वायुर्यदाज्ञयागि‌र्न्जठरादिसंस्थ:।
यदाज्ञयेदं सचराचरं च तमेकदन्तं शरणं व्रजाम:॥

यदन्तरे संस्थितमेकदन्तस्तदाज्ञया सर्वमिदं विभाति।
अनन्तरूपं हृदि बोधकं यस्तमेकदन्तं शरणं व्रजाम:॥

सुयोगिनो योगबलेन साध्यं प्रकुर्वते क: स्तवनेन स्तौति।
अत: प्रणामेन सुसिद्धिदोऽस्तु तमेकदन्तं शरणं व्रजाम:॥

गृत्समद उवाच

एवं स्तुत्वा गणेशानं देवा: समुनय: प्रभुम्।
तृष्णीं भावं प्रपद्यैव ननृतुर्हर्षसंयुता:॥

स तानुवाच प्रीतात्मा देवर्षीणां स्तवेन वै।
एकदन्तो महाभागो देवर्षीन् भक्तवत्सल:॥

एकदन्त उवाच

स्तोत्रेणाहं प्रसन्नोऽस्मि सुरा: सर्षिगणा: किल।
वरदोऽहं वृणुत वो दास्यामि मनसीप्सितम्॥

भवत्कृतं मदीयं यत् स्तोत्रं प्रीतिप्रदं च तत्।
भविष्यति न संदेह: सर्वसिद्धिप्रदायकम्॥

यं यमिच्छति तं तं वै दास्यामि स्तोत्रपाठत:।
पुत्रपौत्रादिकं सर्व कलत्रं धनधान्यकम्॥

गजाश्वादिकमत्यन्तं राज्यभोगादिकं ध्रुवम्।
भुक्तिं मुक्तिं च योगं वै लभते शान्तिदायकम्॥

मारणोच्चाटनादीनि राजबन्धादिकं च यत्।
पठतां श्रृण्वतां नृणां भवेच्च बन्धहीनता॥

एकविंशतिवारं य: श्लोकानेवैकविंशतीन्।
पठेच्च हृदि मां स्मृत्वा दिनानि त्वेकविंशतिम्॥

न तस्य दुर्लभं किञ्चत् त्रिषु लोकेषु वै भवेत्।
असाध्यं साध्येन्म‌र्त्य: सर्वत्र विजयी भवेत्॥

नित्यं य: पठति स्तोत्रं ब्रह्मभूत: स वै नर:।
तस्य दर्शनत: सर्वे देवा: पूता भवन्ति च॥
  • प्रतिदिन इस इक्कीस श्लोकों का इक्कीस दिनों तक प्रतिदिन इक्कीस बार पाठ करता हैं उसे सर्वत्र विजय प्राप्त होती हैं।
  • इस स्तोत्र के पाठ से व्यक्ति को सर्व इच्छीत वस्तु कि प्राप्ति होती हैं। पुत्र-पौत्र आदि, कलत्र, धन-धान्य, उत्तम वाहन एवं समस्त भौतिक सुख साधनो एवं शांति कि प्राप्ति होती हैं।
  • अन्य द्वारा किये जाने वाले मारण, उच्चाटन और मोहन आदि प्रयोग से व्यक्ति कि रक्षा होती हैं।
इससे जुडे अन्य लेख पढें (Read Related Article)


कोई टिप्पणी नहीं:

एक टिप्पणी भेजें