ब्रह्मा रचित कृष्णस्तोत्र
ब्रह्मोवाच :रक्ष रक्ष हरे मां च निमग्नं कामसागरे।
दुष्कीर्तिजलपूर्णे च दुष्पारे बहुसंकटे ॥१॥
भक्तिविस्मृतिबीजे च विपत्सोपानदुस्तरे।
अतीव निर्मलज्ञानचक्षुः-प्रच्छन्नकारणे ॥२॥
जन्मोर्मि-संगसहिते योषिन्नक्राघसंकुले।
रतिस्रोतःसमायुक्ते गम्भीरे घोर एव च ॥३॥
प्रथमासृतरूपे च परिणामविषालये।
यमालयप्रवेशाय मुक्तिद्वारातिविस्तृतौ ॥४॥
बुद्ध्या तरण्या विज्ञानैरुद्धरास्मानतः स्वयम्।
स्वयं च त्व कर्णधारः प्रसीद मधुसूदन ॥५॥
मद्विधाः कतिचिन्नाथ नियोज्या भवकर्मणि।
सन्ति विश्वेश विधयो हे विश्वेश्वर माधव ॥६॥
न कर्मक्षेत्रमेवेद ब्रह्मलोकोऽयमीप्सितः।
तथाऽपि न स्पृहा कामे त्वद्भक्तिव्यवधायके ॥७॥
हे नाथ करुणासिन्धो दीनबन्धो कृपां कुरु।
त्वं महेश महाज्ञाता दुःस्वप्नं मां न दर्शय ॥८॥
इत्युक्त्वा जगतां धाता विरराम सनातनः।
ध्यायं ध्यायं मत्पदाब्जं शश्वत्सस्मार मामिति ॥९॥
ब्रह्मणा च कृतं स्तोत्रं भक्तियुक्तश्च यः पठेत्।
स चैवाकर्मविषये न निमग्नो भवेद् ध्रुवम् ॥१०॥
मम मायां विनिर्जित्य स ज्ञानं लभते ध्रुवम्।
इह लोके भक्तियुक्तो मद्भक्तप्रवरो भवेत् ॥११॥
॥ इति श्रीब्रह्मदेवकृतं कृष्णस्तोत्रं सम्पूर्णम्॥
कोई टिप्पणी नहीं:
एक टिप्पणी भेजें