Search

Shop Our products Online @

www.gurutvakaryalay.com

www.gurutvakaryalay.in


रविवार, मार्च 07, 2010

चण्डिकाष्टकम्‌

Chandika Ashtak, Chandika ashtakam, Chandikashtakm

॥ चण्डिकाष्टकम्‌ ॥

सहस्रचन्द्रनित्दकातिकान्त-चन्द्रिकाचयै, दिशोऽभिपूरयद् विदूरयद् दुराग्रहं कलेः।
कृतामलाऽवलाकलेवरं वरं भजामहे, महेशमानसाश्रयन्वहो महो महोदयम्‌॥१॥

विशाल-शैलकन्दरान्तराल-वासशालिनीं, त्रिलोकपालिनीं कपालिनी मनोरमामिमाम्‌।
उमामुपासितां सुरैरुपास्महे महेश्वरीं, परां गणेश्वरप्रसू नगेश्वरस्य नन्दिनीम्‌॥२॥

अये महेशि! ते महेन्द्रमुख्यनिर्जराः समे, समानयन्ति मूर्द्धरागत परागमंघ्रिजम्‌।
महाविरागिशंकराऽनुरागिणीं नुरागिणी, स्मरामि चेतसाऽतसीमुमामवाससं नुताम्‌॥३॥

भजेऽमरांगनाकरोच्छलत्सुचाम रोच्चलन्‌, निचोल-लोलकुन्तलां स्वलोक-शोक-नाशिनीम्‌।
अदभ्र-सम्भृतातिसम्भ्रम-प्रभूत-विभ्रम-प्रवृत-ताण्डव-प्रकाण्ड-पण्डितीकृतेश्वराम्‌॥४॥

अपीह पामरं विधाय चामरं तथाऽमरं, नुपामरं परेशिदृग्‌विभाविता-वितत्रिके।
प्रवर्तते प्रतोष-रोष-खेलन तव स्वदोष- मोषहेतवे समृद्धिमेलनं पदन्नुमः॥५॥

भभूव्‌भभव्‌भभव्‌भभाभितो-विभासि भास्वर- प्रभाभर-प्रभासिताग-गह्वराधिभासिनीम्‌।
मिलत्तर-ज्वलत्तरोद्वलत्तर-क्षपाकर प्रमूत-भाभर-प्रभासि-भालपट्टिकां भजे॥६॥

कपोतकम्बु-काम्यकण्ठ-कण्ठयकंकणांगदा- दिकान्त-काश्चिकाश्चितां कपालिकामिनीमहम्‌।
वरांघ्रिनूपुरध्वनि-प्रवृत्तिसम्भवद् विशेष- काव्यकल्पकौशलां कपालकुण्डलां भजे॥७॥

भवाभय-प्रभावितद्भवोत्तरप्रभावि भव्य भूमिभूतिभावन प्रभूतिभावुकं भवे।
भवानि नेति ते भवानि! पादपंकजं भजे भवन्ति तत्र शत्रुवो न यत्र तद्विभावनम्‌॥८॥

दुर्गाग्रतोऽतिगरिमप्रभवां भवान्या भव्यामिमां स्तुतिमुमापतिना प्रणीताम्‌।
यः श्रावयेत्‌ सपुरुहूतपुराधिपत्य भाग्यं लभेत रिपवश्च तृणानि तस्य॥९॥

रामाष्टांक शशांकेऽब्देऽष्टम्यां शुक्लाश्विने गुरौ।
शाक्तश्रीजगदानन्दशर्मण्युपहृता स्तुतिः॥१०॥

॥ इति श्री चण्डिकाष्टकम् सम्पूर्णम्‌॥
इससे जुडे अन्य लेख पढें (Read Related Article)


कोई टिप्पणी नहीं:

एक टिप्पणी भेजें