Search

Shop Our products Online @

www.gurutvakaryalay.com

www.gurutvakaryalay.in


मंगलवार, मार्च 23, 2010

श्री राम ह्रदयम्

shree ram hrudayam, shri rama hridayam, shri rama hriday stotram,

श्री राम ह्रदयम्

श्री गणेशाय नमः ।
श्री महादेव उवाच ।

ततो रामः स्वयं प्राह हनूमंतमुपस्थितम् ।
श्रृणु तत्त्वं प्रवक्ष्यामि ह्यात्मानात्मपरात्मनाम् ॥ १ ॥

आकाशस्य यथा भेदस्त्रिविधो दृश्यते महान् ।
जलाशये महाकाशस्तदवच्छिन्न एव हि ॥ २ ॥

प्रतिबिंबाख्यमपरं दृश्यते त्रिविधं नभः ।
बुद्ध्यवचिन्नचैतन्यमेकं पूर्णमथापरम् ॥ ३ ॥

आभासस्त्वपरं बिंबभूतमेवं त्रिधा चितिः ।
साभासबुद्धेः कर्तुत्वमविच्छिन्नेविकारिणि ॥ ४ ॥

साक्षिण्यारोप्यते भ्रांत्या जीवत्वं च तथाऽबुधैः ।
आभासस्तु मृषाबुद्धिरविद्याकार्यमुच्यते ॥ ५ ॥

अविच्छिन्नं तु तद् ब्रह्म त्रिच्छेदस्तु विकल्पितः ।
विच्छिन्नस्य पूर्णेन एकत्वं प्रतिपाद्यते ॥ ६ ॥

तत्त्वमस्यादिवाक्यैश्‍च साभासस्याहमस्तथा ।
ऐक्यज्ञानं यदोत्पन्नं महावाक्येन चात्मनोः ॥ ७ ॥

तदाऽविद्या स्वकार्येश्च नश्यत्येव न संशयः ।
एतद्विज्ञाय मद्भावायोपपद्यते ॥ ८ ॥

मद्भक्‍तिविमुखानां हि शास्त्रगर्तेषु मुह्यताम् ।
न ज्ञानं न च मोक्षःस्यात्तेषां जन्मशतैरपि ॥ ९ ॥

इदं रहस्यं ह्रदयं ममात्मनो मयैव साक्षात्कथितं तवानघ ।
मद्भक्तिहीनाय शठाय च त्वया दातव्यमैन्द्रादपि राज्यतोऽधिकम् ॥ १० ॥


॥  इति श्रीमदध्यात्मरामायण-बालकांडोक्तं श्रीरामह्रदयं संपूर्णम् ॥
इससे जुडे अन्य लेख पढें (Read Related Article)


कोई टिप्पणी नहीं:

एक टिप्पणी भेजें